ॐ श्रीमहालक्ष्म्यै नमः !
स्वर्गस्य देवराजेन इन्द्रेण कृतं महालक्ष्म्यष्टकं विद्वत्सु को वा न जानीयात् ? तदत्र संक्षेपेण प्रस्तूयते ।
हे महालक्ष्मि ! श्रीपीठस्योपरि विराजमाना, देवताभिः पूजितासि ; अतो हे महामाये ! तुभ्यं मे नमः । हस्तेषु शङ्ख-चक्र-गदाधारिणि हे महालक्ष्मि ! तुभ्यं नमः । गरुडारूढा सती कोलासुराय भयप्रदायिनी तथा समस्तपापहारिणी त्वमेवासि, अतो हे भगवति महालक्ष्मि ! तुभ्यं नमः । सर्वज्ञात्री, भक्तेभ्यो वरदात्री, समस्तदुष्टानां भयकारिणी त्वमेव वर्तसे ; अतो हे देवि, महालक्ष्मि ! तुभ्यं मे नमः । सिद्धिः, बुद्धिः, भोगः, मोक्षः चेति चतुर्णां प्रदात्री त्वमेवासि, हे मन्त्रपूत-भगवति महालक्ष्मि ! तुभ्यं मे सदा प्रणामः । हे देवि ! आद्यन्तरहिते हे आदिशक्ते ! हे महेश्वरि ! योगात् प्रकटीभूते हे भगवति महालक्ष्मि ! तुभ्यं नमः ! हे देवि ! त्वं स्थूल-सूक्ष्म-महारौद्ररूपिणी असि, महाशक्तिरसि, महोदरासि, महापापहारिणी चासि ; हे देवि महालक्ष्मि ! तुभ्यं नमो नमः । हे कमलासनस्योपरि विराजमाने परब्रह्मरूपिणि देवि ! हे परमेश्वरि ! हे जगदम्ब ! हे महालक्ष्मि ! तुभ्यं मे प्रणामः । हे देवि ! त्वं श्वेतवस्त्रधारिणी तथा नानाभूषणैः विभूषितासि । सम्पूर्णजगति व्याप्ता एवम् अखिलोकस्य जनयित्री असि । हे महालक्ष्मि ! तुभ्यं मे कोटिशः प्रणामाः सन्तु इति ।
शुभसन्ध्या ! नमः सर्वेभ्यः ! जयतु संस्कृतम् ! — नारदः, १५/११/२०.
Recent Comments